Amrita Bindu Upanishad

Complete Upanishad

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Amrita Bindu Upanishad

Complete Upanishad, Verse 1

अमृतबिन्दु

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ।

हरिः ॐ ॥

मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।

अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम्

Amrita Bindu Upanishad

Complete Upanishad, Verse 2

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।

बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम्

Amrita Bindu Upanishad

Complete Upanishad, Verse 3

यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते ।

अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा

Amrita Bindu Upanishad

Complete Upanishad, Verse 4

निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि ।

यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम्

Amrita Bindu Upanishad

Complete Upanishad, Verse 5

तावदेव निरोद्धव्यं यावधृदि गतं क्षयम् ।

एतज्ज्ञानं च ध्यानं च शेषो न्यायश्च विस्तरः

Amrita Bindu Upanishad

Complete Upanishad, Verse 6

नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च ।

पक्षपातविनिर्मुक्तं ब्रह्म सम्पद्यते तदा

Amrita Bindu Upanishad

Complete Upanishad, Verse 7

स्वरेण संधयेद्योगमस्वरं भावयेत्परम् ।

अस्वरेणानुभावेन नाभावो भाव इष्यते

Amrita Bindu Upanishad

Complete Upanishad, Verse 8

तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।

तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम्

Amrita Bindu Upanishad

Complete Upanishad, Verse 9

निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।

अप्रमेयमनादिं च यज्ज्ञात्वा मुच्यते बुधः

Amrita Bindu Upanishad

Complete Upanishad, Verse 10

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।

एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।

स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते

Amrita Bindu Upanishad

Complete Upanishad, Verse 11

एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।

एकधा बहुधा चैव दृश्यते जलचन्द्रवत्

Amrita Bindu Upanishad

Complete Upanishad, Verse 12

घटसंवृतमाकाशं नीयमानो घटे यथा ।

घटो नीयेत नाकाशः तद्वज्जीवो नभोपमः

Amrita Bindu Upanishad

Complete Upanishad, Verse 13

घटवद्विविधाकारं भिद्यमानं पुनः पुनः ।

शब्दमायावृतो नैव तमसा याति पुष्करे ।

भिन्ने तमसि चैकत्वमेक एवानुपश्यति

Amrita Bindu Upanishad

Complete Upanishad, Verse 14

शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् ।

तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः

Amrita Bindu Upanishad

Complete Upanishad, Verse 15

द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् ।

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति

Amrita Bindu Upanishad

Complete Upanishad, Verse 16

ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।

पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः

Amrita Bindu Upanishad

Complete Upanishad, Verse 17

गवामनेकवर्णानां क्षीरस्याप्येकवर्णता ।

क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा

Amrita Bindu Upanishad

Complete Upanishad, Verse 18

घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् ।

सततं मनसि मन्थयितव्यं मनो मन्थानभूतेन

Amrita Bindu Upanishad

Complete Upanishad, Verse 19

ज्ञाननेत्रं समाधाय चोद्धरेद्वह्निवत्परम् ।

निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम्

Amrita Bindu Upanishad

Complete Upanishad, Verse 20

सर्वभूताधिवासं यद्भूतेषु च वसत्यपि ।

सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवः