Aitareya Upanishad

Aitareya Upanishad

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Aitareya Upanishad

Aitareya Upanishad, Verse 1

ऐतरेयोपनिषद् सस्वरा

॥

ॐ ॥

ॐ वाङ्मे॒ मन॑सि॒ प्रति॑ष्ठिता॒ मनो॑ मे॒ वाचि॒

प्रति॑ष्ठितमा॒विरा॒वीर्म॑ एधि वे॒दस्य म॒ आणी᳚स्थः श्रु॒तं मे॒ मा

प्रहा॑सीर॒नेना॒धीते॑नाहोरा॒त्रान् सन्द॑धाम्यृ॒तं व॑दिष्यामि स॒त्यं व॑दिष्यामि॒

तन्माम॑वतु॒ तद्व॒क्तार॑मव॒त्वव॑तु॒ मामव॑तु व॒क्तार॒मव॑तु व॒क्तारम्᳚ ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

अथ ऋग्वेदीयैतरेयोपनिषत् ।

अथ प्रथमोऽध्यायः ।

अथ प्रथमः खण्डः

आत्मा वा इदमेक एवा᳚ग्र आसीन्नान्यत्किञ्च॑न मि॒षत् ।

स ईक्षत लोकान्नु सृ॑जा इ॒ति

Aitareya Upanishad

Aitareya Upanishad, Verse 1

॥

इति प्रथमः खण्डः ॥

अथ द्वितीयः खण्डः

ता ए॒ता दे॒वताः सृ॒ष्टा अ॒स्मिन्महत्यर्णवे प्रापतंस्तमशनायापिपासाभ्याम᳚न्ववार्जत् ।

ता एनमब्रुवन्नायतनं नः प्र॑जानी॒हि य॒स्मिन्प्रतिष्ठिता अ॒न्नम॑दामेति

Aitareya Upanishad

Aitareya Upanishad, Verse 1

॥

इति द्वितीय खण्ड ॥

अथ तृतीयः खण्डः

स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृ॑जा इ॒ति

Aitareya Upanishad

Aitareya Upanishad, Verse 1

॥

इति तृतीयः खण्डः ॥

इत्यैतरेय-द्वितीयारण्यके चतुर्थोऽध्यायः ।

इति उपनिषत्सु च प्रथमोऽध्यायः ।

अथ द्वितीयो अध्यायः ।

अथ चतुर्थः खण्डः

पुरुषे॒ ह वा अयमादि॒तो ग॑र्भो भ॒वति ।

यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः

सम्भूतमात्मन्येवात्मानं बिभ॒र्ति तद्य॒या स्त्रियां सिञ्चत्य॒थैनज्जनयति तदस्य प्रथ॑मं ज॒न्म

Aitareya Upanishad

Aitareya Upanishad, Verse 1

॥

इति चतुर्थः खण्डः ॥

इत्यैतरेयारण्यके पञ्चमोऽध्यायः ।

इति उपनिषत्सु द्वितीयोध्यायः समाप्तः ।

अथ तृतीयो अध्यायः ।

अथ पञ्चमः खण्डः

कोऽयमात्मेति व॒यमुपास्महे ।

कतरः स आत्मा ।

येन वा॑ रूपं पश्यति येन

वा॑ शब्दं श‍ऋणोति येन वा॑ गन्धानाजिघ्रति येन वा॑ वाचं व्याकरोति येन

वा॑ स्वादु चास्वादु च वि॑जाना॒ति

Aitareya Upanishad

Aitareya Upanishad, Verse 2

स इ॒मांल्लोकानसृजत ।

अम्भो मरीचीर्मरमा᳚पोऽदोऽम्भः परेण

दि॒वं द्यौः प्रतिष्ठा᳚ऽन्तरि॑क्षं मरीच॒यः ।

पृ॒थिवी मरो या अ॒धस्तात्ता आ॒पः

Aitareya Upanishad

Aitareya Upanishad, Verse 2

ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयम॑लमि॒ति ।

ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयम॑लमि॒ति

Aitareya Upanishad

Aitareya Upanishad, Verse 2

सोऽपोभ्य॑तपत्ताभ्योऽभितप्ताभ्यो मूर्तिर॑जाय॒त यो वै सा मूर्तिरजायताऽन्नं वै॒ तत्

Aitareya Upanishad

Aitareya Upanishad, Verse 2

तत् स्त्रियां आत्मभूयं गच्छति यथा स्वमङ्गं तथा ।

तस्मादेनां न हिनस्ति सास्यैतमात्मानमत्र गतं भावय॒ति

Aitareya Upanishad

Aitareya Upanishad, Verse 2

यदेतद् हृदयं मनश्चैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा

दृ॒ष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो व॑श इ॒ति ।

सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि॑ भव॒न्ति

Aitareya Upanishad

Aitareya Upanishad, Verse 3

स ईक्षतेमे नु लोका लोकपालान्नु सृ॑जा इ॒ति ।

सोऽद्भ्य एव पुरुषं समुद्धृत्या᳚मूर्च्छ॒यत्

Aitareya Upanishad

Aitareya Upanishad, Verse 3

ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं᳚ बते॒ति पुरुषो वाव॑ सुकृतम् ।

ता अब्रवीद्यथाऽऽदयतनं प्रवि॑शते॒ति

Aitareya Upanishad

Aitareya Upanishad, Verse 3

तदेतदभिसृष्टं पराङत्यजिघांसत्तद्वा॒चा जिघृक्षत्त॒न्ना शक्नोद्वा॒चा ग्र॑हीतुम् ।

स यद्धैनद्वा॒चाऽग्रहैष्यद॒भिव्याहृत्य है॒वान्न॑मत्र॒प्स्यत्

Aitareya Upanishad

Aitareya Upanishad, Verse 3

सा भावयित्री भावयितव्या॑ भवति तं स्त्री गर्भ᳚ बिभ॒र्ति सोऽग्र एव कुमारं

जन्मनोऽग्रेऽधिभावय॒ति स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येषां

लोकानां सन्तत्या एवं सन्तता ही॒मे लो॒कास्तदस्य द्विती᳚यं ज॒न्म

Aitareya Upanishad

Aitareya Upanishad, Verse 3

ए॒ष ब्रह्मैष इन्द्र ए॒ष प्रजापतिरेते स॒र्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षु॒द्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्र॒ज्ञानेत्रं प्र॒ज्ञाने᳚ प्रतिष्ठितं प्र॒ज्ञाने᳚त्रो लो॒कः प्र॒ज्ञा प्रति॒ष्ठा प्रज्ञा᳚नं ब्रह्म

Aitareya Upanishad

Aitareya Upanishad, Verse 4

तमभ्य॑तपत्तस्याभितप्तस्य मुखं निर॑भि॒द्यत यथाऽण्डम् ।

मुखाद्वाग्वाचो᳚ऽग्निर्नासिके निर॑भिद्येतां नासिकाभ्यां प्रा॒णः

प्रा॒णाद्वा॒युरक्षिणी निर॑भिद्येताम॒क्षीभ्यां चक्षु॒श्चक्षुष॑

आदि॒त्यः क॒र्णौ निर॑भिद्येतां कर्णाभ्यां श्रोत्रं॒ श्रोत्रद्दिश॒स्त्वङ्

निर॑भिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृ॒दयं

निर॑भिद्यत हृ॒दयान्मनो मनसश्च॒न्द्रमा नाभिर्निर॑भिद्यत

ना॒भ्या अपानोऽपानान्मृ॒त्युः शिश्नं निर॑भिद्यत शिश्ना॒द्रेतो᳚

रेत॑स आ॒पः

Aitareya Upanishad

Aitareya Upanishad, Verse 4

अ॒ग्निर्वाग्भूत्वा मुखं᳚ प्राविशद्वा॒युः प्राणो भूत्वा नासिके᳚

प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी᳚ प्राविशाद्दिशः॑ श्रोत्रं भूत्वा कर्णौ᳚

प्राविशन्नोषधिवनस्पतयो लोमा᳚नि भूत्वा त्वचं᳚ प्राविशंश्च॒न्द्रमा

मनो भूत्वा हृदयं᳚ प्राविशन्मृ॒त्युरपानो भूत्वा नाभिं᳚ प्राविशदापो

रेतो भूत्वा शिश्नं᳚ प्राविशन्

Aitareya Upanishad

Aitareya Upanishad, Verse 4

तत्प्रा॒णेनाजिघृक्षत्त॒न्नाशक्नोत् प्रा॒णेन ग्र॑हीतुम् ।

स यद्धैनत्प्रा॒णेनाग्र॑हैष्यद॒भिप्राण्य है॒वान्न॑मत्र॒प्स्यत्

Aitareya Upanishad

Aitareya Upanishad, Verse 4

सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रति॑धीयते ।

अथास्याऽयामितर आ॒त्मा

कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुन॑र्जायते तदस्य तृती᳚यं जन्म

Aitareya Upanishad

Aitareya Upanishad, Verse 4

स ए॒तेन प्राज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे

लोके सर्वान्कामानाप्तवाऽमृतः समभव॑त्सम॒भवदित्योम्

Aitareya Upanishad

Aitareya Upanishad, Verse 5

तमशनायापिपासे अब्रूतामावाभ्यामभिप्रजानीही॒ति ।

स ते अब्रवीदेतास्वेव वां देवतास्वाभ॑जाम्ये॒तासु भागिन्न्यौ क॑रोमी॒ति ।

तस्माद्यस्यै कस्यै च दे॒वतायै हविर्गृ॒ह्यते भागिन्यावेवास्यामशनायापिपा᳚से भ॒वतः

Aitareya Upanishad

Aitareya Upanishad, Verse 5

तच्च॒क्षुषाऽजिघृक्षत्त॒न्नाशक्नोच्च॒क्षुषा ग्र॑हीतुम् ।

स यद्धैनच्च॒क्षुषाऽग्र॑हैष्यद् दृ॒ष्ट्वा हैवान्न॑मत्र॒प्स्यत्

Aitareya Upanishad

Aitareya Upanishad, Verse 5

तदु॑क्तमृ॒षिणा- ``गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒

जनि॑मानि॒ विश्वा᳚ ।

श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑

श्ये॒नो ज॒वसा॒ निर॑दीयमिति ।

(ऋग्वेदे मण्डले ४ सूक्तं २७ ।

१)

गर्भ एवैतच्छयानो वा॒मदेव एव॑मुवा॒च

Aitareya Upanishad

Aitareya Upanishad, Verse 5

॥

इति पञ्चमः खण्डः ॥

इत्यैतरेयाण्यके षष्ठोऽध्यायः ।

इति उपनिषत्सु तृतीयोऽध्यायः ।

ॐ वाङ्मे॒ मन॑सि॒ प्रति॑ष्ठिता॒ मनो॑ मे॒ वाचि॒

प्रति॑ष्ठितमा॒विरा॒वीर्म॑ एधि वे॒दस्य म॒ आणी᳚स्थः श्रु॒तं मे॒ मा

प्रहा॑सीर॒नेना॒धीते॑नाहोरा॒त्रान् सन्द॑धाम्यृ॒तं व॑दिष्यामि स॒त्यं व॑दिष्यामि॒

तन्माम॑वतु॒ तद्व॒क्तार॑मव॒त्वव॑तु॒ मामव॑तु व॒क्तार॒मव॑तु व॒क्तारम्᳚ ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

इत्यैतरेयोपनिषत्सम्पूर्णा ।

Encoded and proofread by Premraj Ware

Aitareya Upanishad

Aitareya Upanishad, Verse 6

तच्छ्रो॒त्रेणाजिघृक्षत्त॒न्नाशक्नोच्छ्रो॒त्रेण ग्र॑हीतुम् ।

स यद्धैन॒च्छ्रोत्रेणाग्रहैष्यच्छ्रु॒त्वा है॒वान्न॑मत्र॒प्स्यत्

Aitareya Upanishad

Aitareya Upanishad, Verse 6

स एवं विद्वानस्माच्छरीरभेदादूर्ध्वसूत्क्रम्यामुष्मिन् स्वर्गे लोके

सर्वान्कामानाप्त्वाऽमृतः समभव॑त्सम॒भवत्

Aitareya Upanishad

Aitareya Upanishad, Verse 7

तत्त्व॒चाऽजिघृक्षत्त॒न्नाशक्नोत् त्व॒चा ग्र॑हीतुम् ।

स यद्धैनत्व॒चाऽग्रहैष्यत्स्पृ॒ष्ट्वा है॒वान्न॑मत्र॒प्स्यत्

Aitareya Upanishad

Aitareya Upanishad, Verse 8

तन्म॒नसाऽजिघृक्षत्तन्नाशक्नोन्म॒नसा ग्र॑हीतुम् ।

स यद्धैनन्म॒नसाऽग्रहैष्यद्धया॒त्वा है॒वान्न॑मत्र॒प्स्यत्

Aitareya Upanishad

Aitareya Upanishad, Verse 9

तच्छि॒श्नेनाजिघृक्षत्त॒न्नाशक्नोच्छि॒श्नेन ग्र॑हीतुम् ।

स यद्धैनच्छि॒श्नेनाग्रहैष्यद्वि॒सृज्य है॒वान्न॑मत्रप्स्यत्

Aitareya Upanishad

Aitareya Upanishad, Verse 10

तद॒पानेनाजिघृक्षत्त॒दावयत् ।

स एषोऽन्नस्य ग्रहो यद्वायुरन्नमायुर्वा ए॒ष य॒द्वायुः