परिच्छिन्नज्योतीरूपलक्ष्यानुसन्धानस्यापि
चित्तशुद्धिफलकत्वम्
मूर्तामूर्तात्मकं यत्र तारकद्वयमुच्यते ।
ज्योतिर्दर्शनमार्गोक्तिं व्यख्यास्येऽद्वयतारकं ॥
ननु -- जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति
नेतीति
विहाय यदवशिष्यते ततद्वयं ब्रह्म इति यदुक्तं तद् युक्तमेव ।
अपि तु -- तत्सिद्ध्यै लक्ष्यत्रयानुसंधानं कर्तव्यं
इत्येतदयुक्तं ।
कुतः लक्ष्यत्रयस्य च देहान्तर्गतत्वेन
परिच्छिन्नज्योतिःस्वरूपतया
स्वयमपरिच्छिन्नत्वाभावात् ।
अद्वयब्रह्म हि अपरिच्छिन्नं
महाकाशवत्
प्रसिद्धं ।
तत्सिद्ध्यै परिच्छिन्नलक्ष्यत्रयानुसन्धानं कथं
साधनं स्यात् ।
अपरिच्छिन्नब्रह्मसिद्ध्यै हि
अपरिच्छिन्नब्रह्मध्यानं
कर्तव्यं ।
अतः इह विरुद्धमुक्तिमिति चेत् -- सत्यमेवैतत् ।
तथापि
उक्तलक्ष्यत्रयानुसन्धानद्वारा संशुद्धचित्त्स्यैव
वाक्यार्थश्रवणमननसंस्कृतान्तःकरणवशीकरणपूर्वकाप्
अरिच्छिन्न-
ब्रह्मात्मैक्यानुसन्धानकरणसामर्थ्यसंभवात् ।
अन्यथा देहमध्यगतज्योतिर्दर्शनहीनत्य
वाक्यादिश्रवणादिप्रवृत्त्यसंभवाच्च परिच्छिन्नानुसन्धानं
युक्तिमित्यनुसन्धानं ॥ १-४॥
अन्तर्लक्ष्यलक्षणम्
देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्राभा
वर्तते ।
सा तु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति ।
तन्मध्ये तटित्कोटिसमानकान्त्या मृणालसूत्रवत् सुक्ष्माङ्गी
कुण्ण्दलिनीति प्रसिद्धाऽस्ति ।
तां दृष्ट्वा मनसैव नरः
सर्वपापविनाशद्वारा मुक्तो भवति ।
फालोर्ध्वगललाटविशेषमण्डले निरन्तरं
तेजस्तारकयोगविस्फुरणेन पश्यति चेत् सिद्धो भवति ।
तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये तत्र फूत्कारशब्दो जायते ।
तत्र
स्थिते मनसि चक्षुर्मध्यगतनीलज्योतिस्स्थलं विलोक्य
अन्तर्दृष्ट्या
निरतिशयसुखं प्राप्नोति ।
एवं हृदये पश्यति ।
एवमन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यं